वांछित मन्त्र चुनें

आ॒धीष॑माणाया॒: पति॑: शु॒चाया॑श्च शु॒चस्य॑ च । वा॒सो॒वा॒योऽवी॑ना॒मा वासां॑सि॒ मर्मृ॑जत् ॥

अंग्रेज़ी लिप्यंतरण

ādhīṣamāṇāyāḥ patiḥ śucāyāś ca śucasya ca | vāsovāyo vīnām ā vāsāṁsi marmṛjat ||

पद पाठ

आ॒ऽधीष॑माणायाः । पतिः॑ । शु॒चायाः॑ । च॒ । शु॒चस्य॑ । च॒ । वा॒सः॒ऽवा॒यः । अवी॑नाम् । आ । वासां॑सि । मर्मृ॑जत् ॥ १०.२६.६

ऋग्वेद » मण्डल:10» सूक्त:26» मन्त्र:6 | अष्टक:7» अध्याय:7» वर्ग:14» मन्त्र:1 | मण्डल:10» अनुवाक:2» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (शुचायाः-आधीषमाणायाः) प्रकाशमान भली-भाँति धारण करने योग्य उषा का (शुचस्य च) तथा प्रकाशमान प्रकाशक सूर्य का (पतिः) स्वामी व पोषक परमात्मा (वासः-वायः) वस्त्र बुननेवाले तन्तुवाय के समान (अवीनाम्) पृथ्वी आदि पिण्डों के (वासांसि) आच्छादन-मण्डलों आवरणों को (आ मर्मृजत्) उषा और सूर्य के द्वारा भली-भाँति शोभता है ॥६॥
भावार्थभाषाः - उषा और सूर्य का स्वामी परमात्मा समस्त पृथिव्यादी पिण्डों के वस्त्ररूप मण्डलों आवरणों को उषा और सूर्य के द्वारा शोभन करता है ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (शुचायाः-आधीषमाणायाः) प्रकाशमानायाः-आ समन्ताद् धार्यमाणायाः उषसः (च) तथा (शुचस्य च) प्रकाशमानस्य प्रकाशकस्य सूर्यस्य च (पतिः) स्वामी स पोषयिता परमात्मा (वासः-वायः) “अत्र वाचकलुप्तोपमालङ्कारः” वस्त्रवायस्तन्तुवाय इव (अवीनाम्) पृथिव्यादीनां पिण्डानाम् “इयं पृथिव्यविः” [श० ६।१।२।३३]  (वासांसि) आच्छादनानि तद्गतिमण्डलानि (आ मर्मृजत्) उषसा सूर्येण समन्तात्-शोधयसि ॥६॥